This is the first of the four enthralling hymns to the Divine Mother from the Chandi. This one is in the first chapter. ॐ नमश्चण्डिकायै ब्रह्मकृतदेवीस्तुतिः॥ त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरात्मिका। सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता॥१॥ अर्धमात्रा स्थिता नित्या यानुच्चार्याविशेषतः। त्वमेव सा त्वं सावित्री त्वं देव जननी परा॥२॥ त्वयैतद्धार्यते विश्वं त्वयैतत्सृज्यते […]
Tag Archives: Chandi
Śakrādi-krita devī stutih:
Hymn to the Devi by Shakra and the other Devas
The second Chandi hymn, from the fourth chapter. शक्रादिकृतदेवीस्तुतिः देव्या यया ततमिदं जगदात्मशक्त्या निःशेषदेवगणशक्तिसमूहमूर्त्या। तामम्बिकामखिलदेवमहर्षिपूज्यां भक्त्या नताः स्म विदधातु शुभानि सा नः॥१॥ यस्याः प्रभावमतुलं भगवाननन्तो ब्रह्मा हरश्च न हि वक्तुमलं बलं च। सा चण्डिकाखिलजगत्परिपालनाय नाशाय चाशुभभयस्य मतिं करोतु॥२॥ या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीःपापात्मनां कृतधियां हृदयेषु बुद्धिः। श्रद्धा सतां कुलजनप्रभवस्य लज्जा तां त्वां नताः स्म परिपालय […]
Aparājitā Stuti:
Litany to the Devi as present in all beings
The third of the Chandi Hymns, saluting the Devi again and again, present within all beings in different aspects. From the fifth chapter. देवगणकृतापराजितास्तुतिः नमो देव्यै महादेव्यै शिवायै सततं नमः। नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम्॥१॥ रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः। ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः॥२॥ कल्याण्यै प्रणता वृद्ध्यै सिद्ध्यै कुर्मो नमो […]
Nārāyani Stuti:
Litany to the Devi in her various aspects
The fourth and final hymn to the Devi from the Chandi, by Indra and the other devas. इन्द्रादिकृतनारायणीस्तुतिः देवि प्रपन्नार्तिहरे प्रसीद प्रसीद मातर्जगतोऽखिलस्य। प्रसीद विश्वेश्वरि पाहि विश्वं त्वमीश्वरी देवि चराचरस्य॥१॥ आधारभूता जगतस्त्वमेका महीस्वरूपेण यतः स्थितासि। अपां स्वरूपस्थितया त्वयैतदाप्यायते कृत्स्नमलङ्घ्यवीर्ये॥२॥ त्वं वैष्णवीशक्तिरनन्तवीर्या विश्वस्य बीजं परमासि माया। सम्मोहितं देवि समस्तमेतत्त्वं वै प्रसन्ना भुवि मुक्तिहेतुः॥३॥ विद्याः समस्तास्तव देवि भेदाःस्त्रियः […]
Sarva-mangala-māngalye:
Litany to the Divine Mother
From the Chandi
Three verses from the Narayani Stuti of the Chandi comprise the third Arati hymn. ॐ सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके। शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते॥ सृष्टिस्थितिविनाशानां शक्तिभूते सनातनि। गुणाश्रये गुणमये नारायणि नमोऽस्तु ते॥ शरणागतदीनार्तपरित्राणपरायणे। सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते॥ जय नारायणि नमोऽस्तु ते जय नारायणि नमोऽस्तु ते। जय नारायणि नमोऽस्तु ते जय नारायणि नमोऽस्तु ते॥ om sarvamaṅgalamāṅgalye […]